०१९

सर्वाष् टीकाः ...{Loading}...

०१ यदि गाधानां यदि

विश्वास-प्रस्तुतिः ...{Loading}...

यदि गाधानां यदि नाव्यानां
नदीनां पारे नृपतिः सखा नः ।
विश्वे देवासो अभि रक्षतैनं
यथा जीवो विदथम् आवदासि ॥

०२ यद्य् अवारे यदि

विश्वास-प्रस्तुतिः ...{Loading}...

यद्य् अवारे यदि वा घ पारे
यदि धन्वनि नृपतिः सखा नः ।
(…) ॥

०३ यदि यत्सु यदि

विश्वास-प्रस्तुतिः ...{Loading}...

यदि यत्सु यदि धृत्यां
यदि समित्यां नृपतिः सखा नः ।
(…) ॥

०४ अधस् पद्यन्ताम् अधरे

विश्वास-प्रस्तुतिः ...{Loading}...

अधस् पद्यन्ताम् अधरे भवन्तु
ये नः सूरिं मघवानं पृतन्यान् ।
विश्वे देवासो अभि रक्षतैनं
यथा जीवो विदथम् आवदासि ॥

०५ यम मृत्यो मैनम्

विश्वास-प्रस्तुतिः ...{Loading}...

यम मृत्यो मैनं हिंसीर्
यम् अहं हृदा मनसा जुगोप ।
यो मां पिपर्ति यम् अहं पिपर्मि
स प्रजावान् मघवान् सूरिर् अस्तु ॥