०१८

सर्वाष् टीकाः ...{Loading}...

०१ सिंहे व्याघ्र उत

विश्वास-प्रस्तुतिः ...{Loading}...

सिंहे व्याघ्र उत या पृदाकौ
त्विषिर् अग्नौ ब्राह्मणे सूर्ये या ।
इन्द्रं या देवी सुभगा ववर्ध
सा न ऐतु वर्चसा संविदाना ॥

०२ हस्तिनि द्वीपिनि या

विश्वास-प्रस्तुतिः ...{Loading}...

(या) हस्तिनि द्वीपिनि या हिरण्ये
त्विषिर् अश्वेषु पुरुषेषु गोषु ।
(…) ॥ (see 1cd)

०३ राजन्ये दुन्दुभाव् आयतायाम्

विश्वास-प्रस्तुतिः ...{Loading}...

(या) राजन्ये दुन्दुभाव् आयतायां
त्विषिः सेनायां स्तनयित्नौ घोषे या ।
(…) ॥ (see 1cd)

०४ रथे अक्षेष्व् ऋषभस्य

विश्वास-प्रस्तुतिः ...{Loading}...

रथे अक्षेष्व् ऋषभस्य वाजे
पर्जन्ये वाते वरुणस्य शुष्मे ।
इन्द्रं या देवी सुभगा ववर्ध
(…) ॥ (see 1d)

०५ या रुद्रेषु या

विश्वास-प्रस्तुतिः ...{Loading}...

या रुद्रेषु या वसुष्व्
आदित्येषु मरुत्सु या ।
त्विषिर् या विश्वेषु देवेषु
सा न ऐतु वर्चसा संविदाना ॥