०१७

सर्वाष् टीकाः ...{Loading}...

०१ यथेदं भूम्या अधि

विश्वास-प्रस्तुतिः ...{Loading}...

यथेदं भूम्या अधि
वातस् तृणं मथायति ।
एवा मथ्नामि ते मनो
यथा मां कामिन्य् असो
यथा माम् अन्व् आयसि ॥

०२ एयम् अगन् पतिकामा

विश्वास-प्रस्तुतिः ...{Loading}...

एयम् अगन् पतिकामा
जनिकामो ऽहम् आगमम् ।
अश्वः कनिक्रदद् यथा
भगेनाहं सहागमम् ॥

०३ सं चेन् नयाथो

विश्वास-प्रस्तुतिः ...{Loading}...

सं चेन् नयाथो अश्विना
कामिना सं च नेषथः ।
सं वां मनांस्य् अग्मत
सं चक्षूंषि सम् उ व्रता ॥

०४ यद् अन्तरं तद्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अन्तरं तद् बाह्यं
यद् बाह्यं तद् अन्तरम् ।
कन्यानां विश्वरूपाणां
मनो गृभायौषधे ॥

०५ ?यासुपर्णापक्षणवा आनपक्षणवा? अत्रा

विश्वास-प्रस्तुतिः ...{Loading}...

?यासुपर्णापक्षणवा-
-आनपक्षणवा? ।
अत्रा त आर्पितं मनः
शल्य इव कुर्मलं यथा ॥