०१६

सर्वाष् टीकाः ...{Loading}...

०१ या शत्रून् प्राशञ्जया

विश्वास-प्रस्तुतिः ...{Loading}...

या शत्रून् प्राशंजया
सहमानाभिभूर् असि ।
सामून् प्रतिप्राशो जह्य्
अरसान् कृण्व् ओषधे ॥

०२ सुपर्णस् त्वान्व् अविन्दत्

विश्वास-प्रस्तुतिः ...{Loading}...

सुपर्णस् त्वान्व् अविन्दत्
सूकरस् त्वाखनन् नसा ।
इन्द्रस् त्वा चक्रे बाह्वोर्
असुरेभ्य स्तरीतवे ॥

०३ पाटाम् इन्द्रो व्य्

विश्वास-प्रस्तुतिः ...{Loading}...

पाटाम् इन्द्रो व्य् आश्नाद्
धन्तवा असुरेभ्यः ।
तयाहं शत्रून् साक्षीय-
-इन्द्रः शालावृकान् इव ॥

०४ रुद्र जलाषभेषज नीलशिखण्ड

विश्वास-प्रस्तुतिः ...{Loading}...

रुद्र जलाषभेषज
नीलशिखण्ड कर्मकृत् ।
प्रश्नं दुरस्यतो जहि
यो अस्माँ अभिदासति ॥

०५ तस्य प्रश्नं त्वम्

विश्वास-प्रस्तुतिः ...{Loading}...

तस्य प्रश्नं त्वं जहि
यो न इन्द्राभिदासति ।
अधि नो ब्रूहि शक्तिभिः
प्राशि माम् उत्तरं कृधि ॥