०१५

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्रस्य या मही

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रस्य या मही दृषत्
क्रिमेर् विश्वस्य तर्हणी ।
तया पिनष्मि सं क्रिमीन्
दृषदा खल्वाꣳ इव ॥

०२ दृष्टम् अदृष्टम् अतृहम्

विश्वास-प्रस्तुतिः ...{Loading}...

दृष्टम् अदृष्टम् अतृहम्
अथो कुरूरुम् अतृहम् ।
अल्गण्डून् सर्वाञ् छलूलान् क्रिमीन्
वचसा जम्भयामसि ॥

०३ अल्गण्डून् हन्मि महता

विश्वास-प्रस्तुतिः ...{Loading}...

अल्गण्डून् हन्मि महता वधेन
दूना अदूना अरसा अभूवन् ।
शिष्टान् अशिष्टान् नि तिरामि वाचा
यथा क्रिमीणां नकिर् उच्छिषातै ॥

०४ अन्वान्त्रियं शीर्षण्यम् अथो

विश्वास-प्रस्तुतिः ...{Loading}...

अन्वान्त्रियं शीर्षण्यम्
अथो पार्ष्टेयं क्रिमिम् ।
अवस्कवं व्यद्वरं क्रिमीन्
वचसा जम्भयामसि ॥

०५ ये क्रिमयः पर्वतेषु

विश्वास-प्रस्तुतिः ...{Loading}...

ये क्रिमयः पर्वतेषु ये वनेषु
य ओषधीषु पशुष्व् अप्स्व् अन्तः ।
ये अस्माकं तन्वं स्थाम चक्रिर
इन्द्रस् तान् हन्तु महता वधेन ॥