०१३

सर्वाष् टीकाः ...{Loading}...

०१ सं वः सृजत्व्

विश्वास-प्रस्तुतिः ...{Loading}...

सं वः सृजत्व् अर्यमा
सं पूषा सं बृहस्पतिः ।
सम् इन्द्रो यो धनंजय
इह पुष्यत यद् वसु ॥

०२ इहैव गाव एतन

विश्वास-प्रस्तुतिः ...{Loading}...

इहैव गाव एतन-
-इहो शका इव पुष्यत ।
इहैवोत प्र जायध्वं
मयि संज्ञानम् अस्तु वः ॥

०३ मया गावो गोपत्या

विश्वास-प्रस्तुतिः ...{Loading}...

मया गावो गोपत्या सचध्वम्
अयं वो गोष्ठ इह पोषयाति ।
रायस्पोषेण बहुला भवन्तीर्
जीवा जीवन्तीर् उप वः सदेम ॥

०४ सं वो गोष्ठेन

विश्वास-प्रस्तुतिः ...{Loading}...

सं वो गोष्ठेन सुषदा
सं रय्या सं सुपुष्ट्या ।
अहर्जातस्य यन् नाम
तेन वः सं सृजामसि ॥

०५ सञ्जानाना अविह्रुता अस्मिन्

विश्वास-प्रस्तुतिः ...{Loading}...

संजानाना अविह्रुता
अस्मिन् गोष्ठे करीषिणीः ।
बिभ्रतीः सोम्यं हविः
स्वावेशास एतन ॥