०११

सर्वाष् टीकाः ...{Loading}...

०१ दीर्घायुत्वाय बृहते रणाय

विश्वास-प्रस्तुतिः ...{Loading}...

दीर्घायुत्वाय बृहते रणाय-
-अरिष्यन्तो दक्षमाणाः सदैव ।
मणिं विष्कन्धदूषणं
जङ्गिडं बिभृमो वयम् ॥

०२ जङ्गिडो जम्भाद् विशराद्

विश्वास-प्रस्तुतिः ...{Loading}...

जङ्गिडो जम्भाद् विशराद्
विष्कन्धाद् अभिशोचनात् ।
मणिः सहस्रवीर्यः
परि णः पातु विश्वतः ॥

०३ अयं विष्कन्धं सहते

विश्वास-प्रस्तुतिः ...{Loading}...

अयं विष्कन्धं सहते
अयं रक्षो ऽप बाधते ।
अयं नो विश्वभेषजो
जङ्गिडः पात्व् अंहसः ॥

०४ देवैर् दत्तेन मणिना

विश्वास-प्रस्तुतिः ...{Loading}...

देवैर् दत्तेन मणिना
जङ्गिडेन मयोभुवा ।
विष्कन्धं सर्वा रक्षांसि
व्यायामे सहामहे ॥

०५ शणश् च त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

शणश् च त्वा जङ्गिडश् च
विष्कन्धाद् अधि मुञ्चताम् ।
अरण्याद् अन्य आभृतः
कृष्या अन्यो रसेभ्यः ॥