०१०

सर्वाष् टीकाः ...{Loading}...

०१ दशवृक्ष मुञ्चेमम् अंहसो

विश्वास-प्रस्तुतिः ...{Loading}...

दशवृक्ष मुञ्चेमम्
अंहसो ग्राह्याश् च ।
अथो एनं वनस्पते
जीवानां लोकम् उन् नय ॥

०२ यश् चकार स

विश्वास-प्रस्तुतिः ...{Loading}...

यश् चकार स निष् करत्
स एव सुभिषक्तमः ।
स एव तुभ्यं भेषजं
चकार भिषजाति च ॥

०३ चीतिं ते देवा

विश्वास-प्रस्तुतिः ...{Loading}...

चीतिं ते देवा अविदन्
ब्रह्माण उत वीरुधः ।
चीतिं ते ऽद्योत्तमाम्
अविदन् भूम्याम् अधि ॥

०४ आगाद् उद् अगाद्

विश्वास-प्रस्तुतिः ...{Loading}...

आगाद् उद् अगाद् अयं
जीवानां व्रातम् अप्य् अगात् ।
अभूद् उ पुत्राणां पिता
नृणां च भगवत्तमः ॥

०५ अधीतिम् अध्य् अगाद्

विश्वास-प्रस्तुतिः ...{Loading}...

अधीतिम् अध्य् अगाद् अयम्
अधि जीवपुरा अगात् ।
शतं च यस्य वीरुधः
सहस्रम् उत भेषजा ॥