००८

सर्वाष् टीकाः ...{Loading}...

०१ उद् इत्ये अक्रमन्

विश्वास-प्रस्तुतिः ...{Loading}...

उद् इत्ये अक्रमन् त्रयो
व्याघ्रः पुरुषो वृकः ।
हिरुग् ज्योतिः सूर्यो
हिरुग् देवो वनस्पतिर्
हिरुङ् नवन्तु शत्रवः ॥

०२ परमेण पथा वृकः

विश्वास-प्रस्तुतिः ...{Loading}...

परमेण पथा वृकः
परेण स्तेनो अर्षतु ।
ततो व्याघ्रः परमः ॥

०३ अक्ष्यौ च ते

विश्वास-प्रस्तुतिः ...{Loading}...

अक्ष्यौ च ते हनू च ते
व्याघ्र जम्भयामसि ।
आत् सर्वान् विंशतिं नखान् ॥

०४ यत् सन्नशो वि

विश्वास-प्रस्तुतिः ...{Loading}...

यत् संनशो वि यन् नशो
यद् ?विनशो न सं नशः? ।
मूर्णा मृगस्य दन्ता
अपिशीर्णा उ पृष्टयः ॥

०५ व्याघ्रं दत्वतां वयम्

विश्वास-प्रस्तुतिः ...{Loading}...

व्याघ्रं दत्वतां वयं
प्रथमं जम्भयामसि ।
आद् इत् स्तेनम् अहिं
यातुधानम् अथो वृकम् ॥

०६ नेव रप्ससै न

विश्वास-प्रस्तुतिः ...{Loading}...

नेव रप्ससै
न गृहः परश् चर ।
द्विपाच् चतुष्पान् नो मा हिंसीर्
इन्द्रजाः सोमजा असि ॥