००६

सर्वाष् टीकाः ...{Loading}...

०१ वेनस् तत् पश्यत्

विश्वास-प्रस्तुतिः ...{Loading}...

वेनस् तत् पश्यत् परमं पदं
यत्र विश्वं भवत्य् एकनीडम् ।
इदं धेनुर् अदुहज् जायमानाः
स्वर्विदो अभ्य् अनूषत व्राः ॥

०२ प्र तद् वोचेद्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र तद् वोचेद् अमृतं न विद्वान्
गन्धर्वो धाम परमं गुहा यत् ।
त्रीणि पदा निहिता गुहास्य
यस् तानि वेद स पितुष् पितासत् ॥

०३ स नो बन्धुर्

विश्वास-प्रस्तुतिः ...{Loading}...

स नो बन्धुर् जनिता स विधर्ता
धामानि वेद भुवनानि विश्वा ।
यत्र देवा अमृतम् आनशानाः
समाने धामन्न् अध्य् ऐरयन्त ॥

०४ परि विश्वा भुवनान्य्

विश्वास-प्रस्तुतिः ...{Loading}...

परि विश्वा भुवनान्य् आयम्
उपातिष्ठे प्रथमजा ऋतस्य ।
वाचम् इव वक्तरि भुवनेष्ठा
धास्युर् न्व् एष नन्व् एषो अग्निः ॥

०५ परि द्यावापृथिवी सद्य

विश्वास-प्रस्तुतिः ...{Loading}...

परि द्यावापृथिवी सद्य आयम्
ऋतस्य तन्तुं विततं दृशे कम् ।
देवो देवत्वम् अभिरक्षमाणः
समानं बन्धुं व्य् अपृच्छद् एकः ॥