सर्वाष् टीकाः ...{Loading}...
०१ द्यावापृथिवी उर्व् अन्तरिक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
द्यावापृथिवी उर्व् अन्तरिक्षं
क्षेत्रस्य पत्न्य् उरुगायो अद्भुतः ।
उतान्तरिक्षम् उरु वातगोपं
ते घ तप्यन्तां मयि तप्यमाने ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्यावापृथिवी उर्व् अन्तरिक्षं
क्षेत्रस्य पत्न्य् उरुगायो अद्भुतः ।
उतान्तरिक्षम् उरु वातगोपं
ते घ तप्यन्तां मयि तप्यमाने ॥
सर्वाष् टीकाः ...{Loading}...
०२ इदम् इन्द्र शृणुहि
विश्वास-प्रस्तुतिः ...{Loading}...
इदम् इन्द्र शृणुहि सोमप
यत् त्वा हृदा शोचता जोहवीमि ।
वृश्चामि तं कुलिशेनेव वृक्षं
यो अस्माकं मन इदं हिनस्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदम् इन्द्र शृणुहि सोमप
यत् त्वा हृदा शोचता जोहवीमि ।
वृश्चामि तं कुलिशेनेव वृक्षं
यो अस्माकं मन इदं हिनस्ति ॥
सर्वाष् टीकाः ...{Loading}...
०३ इदं देवाः शृणुत
विश्वास-प्रस्तुतिः ...{Loading}...
इदं देवाः शृणुत ये च यज्ञिया स्थ
भरद्वाजो मह्यम् उक्थानि शंसतु ।
पाशे स बद्धो दुरिते नि युज्यतां
यो अस्माकं मन इदं हिनस्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं देवाः शृणुत ये च यज्ञिया स्थ
भरद्वाजो मह्यम् उक्थानि शंसतु ।
पाशे स बद्धो दुरिते नि युज्यतां
यो अस्माकं मन इदं हिनस्ति ॥
सर्वाष् टीकाः ...{Loading}...
०४ अशीतिभिस् तिसृभिः सामगेभिर्
विश्वास-प्रस्तुतिः ...{Loading}...
अशीतिभिस् तिसृभिः सामगेभिर्
आदित्येभिर् वसुभिर् अङ्गिरोभिः ।
इष्टापूर्तम् अवतु नः पितॄणाम्
आमुं ददे हरसा दैव्येन ॥
मूलम् ...{Loading}...
मूलम् (GR)
अशीतिभिस् तिसृभिः सामगेभिर्
आदित्येभिर् वसुभिर् अङ्गिरोभिः ।
इष्टापूर्तम् अवतु नः पितॄणाम्
आमुं ददे हरसा दैव्येन ॥
सर्वाष् टीकाः ...{Loading}...
०५ द्यावापृथिवी अनु मा
विश्वास-प्रस्तुतिः ...{Loading}...
द्यावापृथिवी अनु मा दीधीथां
विश्वे देवासो अनु मा रभध्वम् ।
अङ्गिरसः पितरः सोम्यासः
पापम् आ र्च्छत्व् अपकामस्य कर्ता ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्यावापृथिवी अनु मा दीधीथां
विश्वे देवासो अनु मा रभध्वम् ।
अङ्गिरसः पितरः सोम्यासः
पापम् आ र्च्छत्व् अपकामस्य कर्ता ॥
सर्वाष् टीकाः ...{Loading}...
०६ अतीव यो मरुतो
विश्वास-प्रस्तुतिः ...{Loading}...
अतीव यो मरुतो मन्यते नो
ब्रह्म वा यो निन्दिषत् क्रियमाणम् ।
तपूंषि तस्मै वृजिनानि सन्तु
ब्रह्मद्विषम् अभि तं शोचतु द्यौः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अतीव यो मरुतो मन्यते नो
ब्रह्म वा यो निन्दिषत् क्रियमाणम् ।
तपूंषि तस्मै वृजिनानि सन्तु
ब्रह्मद्विषम् अभि तं शोचतु द्यौः ॥
सर्वाष् टीकाः ...{Loading}...
०७ आ दधामि ते
विश्वास-प्रस्तुतिः ...{Loading}...
आ दधामि ते पदं
समिद्धे जातवेदसि ।
अग्निः शरीरं वेवेष्टु
यमं गच्छतु ते असुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ दधामि ते पदं
समिद्धे जातवेदसि ।
अग्निः शरीरं वेवेष्टु
यमं गच्छतु ते असुः ॥
सर्वाष् टीकाः ...{Loading}...
०८ सप्त प्राणान् अष्टौ
विश्वास-प्रस्तुतिः ...{Loading}...
सप्त प्राणान् अष्टौ मज्ज्ञस्
तांस् ते वृश्चामि ब्रह्मणा ।
यमस्य गच्छ सादनम्
अग्निदूतो अरंकृतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सप्त प्राणान् अष्टौ मज्ज्ञस्
तांस् ते वृश्चामि ब्रह्मणा ।
यमस्य गच्छ सादनम्
अग्निदूतो अरंकृतः ॥