००४

सर्वाष् टीकाः ...{Loading}...

०१ निःसालां धृष्णुं धिषणम्

विश्वास-प्रस्तुतिः ...{Loading}...

निःसालां धृष्णुं धिषणम्
एकावाद्यां जिघत्स्वम् ।
सर्वाश् चण्डस्य नप्त्यो
नाशयामः सदान्वाः ॥

०२ यदि वा घ

विश्वास-प्रस्तुतिः ...{Loading}...

यदि वा घ क्षेत्रियाद्
यदि वा पुरुषेषिताः ।
यदि स्थ दस्युभ्यो जाता
नश्यतेतः सदान्वाः ॥

०३ परि धामान्य् आसाम्

विश्वास-प्रस्तुतिः ...{Loading}...

परि धामान्य् आसाम्
आशुर् गाष्ठाम् इवासरम् ।
अजैषं सर्वाꣳ आजीन् वो
नश्यतेतः सदान्वाः ॥

०४ निर् वो गोष्ठाद्

विश्वास-प्रस्तुतिः ...{Loading}...

निर् वो गोष्ठाद् अजामसि
निर् योनेर् निर् उपानसात् ।
निर् वो मगुन्द्या दुहितरो
गृहेभ्यश् चातयामसि ॥

०५ अमुष्मिन्न् अधरे गृहे

विश्वास-प्रस्तुतिः ...{Loading}...

अमुष्मिन्न् अधरे गृहे
सर्वाः सन्त्व् अराय्यः ।
तत्र पाप्मा न्य् उच्यतु
सर्वाश् च यातुधान्यः ॥