००३

सर्वाष् टीकाः ...{Loading}...

०१ क्षेत्रियात् त्वा निरृत्या

विश्वास-प्रस्तुतिः ...{Loading}...

क्षेत्रियात् त्वा निरृत्या जामिशंसाद्
द्रुहो मुञ्चामि वरुणस्य पाशात् ।
अनागसं ब्रह्मणा त्वा कृणोमि
शिवे ते द्यावापृथिवी अभूताम् ॥

०२ शं ते अग्निः

विश्वास-प्रस्तुतिः ...{Loading}...

शं ते अग्निः सहाद्भिर् अस्तु
शं गावः सहौषधीभिः ।
शम् अन्तरिक्षं सहवातम् अस्तु ते
शं ते भवन्तु प्रदिशश् चतस्रः ॥

०३ या देवीः प्रदिशश्

विश्वास-प्रस्तुतिः ...{Loading}...

या देवीः प्रदिशश् चतस्रो
वातपत्नीर् अभि सूर्यो विचष्टे ।
तास्व् एतं जरस आ दधामि
प्र यक्ष्म एतु निरृतिः पराचैः ॥

०४ सूर्यम् ऋतं तमसो

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्यम् ऋतं तमसो ग्राह्या यथा
देवा मुञ्चन्तो असृजन् निर् एनसः ।
एवा त्वा क्षेत्रियान् निरृत्या जामिशंसाद्
द्रुहो मुञ्चामि वरुणस्य पाशात् ॥

०५ अमोचि यक्ष्माद् दुरिताद्

विश्वास-प्रस्तुतिः ...{Loading}...

अमोचि यक्ष्माद् दुरिताद् अवद्याद्
द्रुहः पाशाद् ग्राह्याश् चोद् अमोचि ।
जहद् अवर्तिम् अविदत् स्योनाम्
अप्य् अभूद् भद्रे सुकृतस्य लोके ॥