००२

सर्वाष् टीकाः ...{Loading}...

०१ आविद्य द्यावापृथिवी आविद्य

विश्वास-प्रस्तुतिः ...{Loading}...

आविद्य द्यावापृथिवी
आविद्य भगम् अश्विना ।
आविद्य ब्रह्मणस्पतिं
कृणोम्य् अरसं विषम् ॥

०२ अरसं हेद् इदम्

विश्वास-प्रस्तुतिः ...{Loading}...

अरसं हेद् इदं विषं
यथैनद् अहम् आशिषम् ।
उतैनद् अद्यात् पुरुषो
भवाद् इद् अगदः पुनः ॥

०३ मा बिभेर् न

विश्वास-प्रस्तुतिः ...{Loading}...

मा बिभेर् न मरिष्यसि
परि त्वा पामि विश्वतः ।
रसं विषस्य नाविदम्
उद्नः फेनम् अदन्न् इव ॥

०४ अपावोचद् अपवक्ता प्रथमो

विश्वास-प्रस्तुतिः ...{Loading}...

अपावोचद् अपवक्ता
प्रथमो दैव्यो भिषक् ।
समक्षम् इन्द्र गा इव
या वाचो विषदूषणीः ॥

०५ यच् च पिष्टम्

विश्वास-प्रस्तुतिः ...{Loading}...

यच् च पिष्टं यच् चापिष्टं
यद् दिग्धं यच् च देह्यम् ।
देवाः सर्वस्य विद्वांसो
ऽरसं कृणुता विषम् ॥