००१

सर्वाष् टीकाः ...{Loading}...

०१ अरसं प्राच्यं विषम्

विश्वास-प्रस्तुतिः ...{Loading}...

अरसं प्राच्यं विषम्
अरसं यद् उदीच्यम् ।
अथेदम् अधराच्यं
करम्भेण वि कल्पते ॥

०२ करम्भं कृत्वा तिर्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

करम्भं कृत्वा तिर्यं
पीवस्फाकम् उदारथिम् ।
क्षुधा किल त्वा दुष्टनो
जक्षिवांसं न रूरुपः ॥

०३ वि ते मदम्

विश्वास-प्रस्तुतिः ...{Loading}...

वि ते मदं मदवति
शरुम् इव पातयामसि ।
प्र त्वा चरुम् इव येषन्तं
वचसा स्थापयामसि ॥

०४ परि ग्रामम् इवाचितम्

विश्वास-प्रस्तुतिः ...{Loading}...

परि ग्रामम् इवाचितं
परि त्वा स्थापयामसि ।
तिष्ठा वृक्ष इव स्थामन्न्
अभ्रिखाते न रूरुपः ॥

०५ पवस्तैस् त्वा पर्य्

विश्वास-प्रस्तुतिः ...{Loading}...

पवस्तैस् त्वा पर्य् अक्रीणन्
दूर्शेभिर् अजिनैर् उत ।
प्रक्रीर् असि त्वम् ओषधे
ऽभ्रिखाते न रूरुपः ॥