११२

सर्वाष् टीकाः ...{Loading}...

०१ इमा ऊरू सवासिनौ

विश्वास-प्रस्तुतिः ...{Loading}...

इमा ऊरू सवासिनौ
वर्चसाञ्जे अहं मम ।
नाम ह्य् एनयोर् वेद
यथा न बहवो विदुः ॥

०२ वर्चसापीना पृथिवी सूर्येणोत्तभिता

विश्वास-प्रस्तुतिः ...{Loading}...

वर्चसापीना पृथिवी
सूर्येणोत्तभिता द्यौः ।
त्विषिं यां पश्यामो वाते
तां नि यच्छे ममोर्वोः ॥

०३ वेद वै वाम्

विश्वास-प्रस्तुतिः ...{Loading}...

वेद वै वां नामधेयं
जिगीवाꣳ अपराजितम् ।
प्रजां च बह्वीम् आ शासे
राष्ट्रं चेन्द्राभिरक्षितम् ॥

०४ विदुषी वां नामधेयम्

विश्वास-प्रस्तुतिः ...{Loading}...

विदुषी वां नामधेयम्
अश्विना सारघं मधु ।
सूर्य इव चक्षुर् भूतानां
प्रजां धारयतं मयि
रयिं धारयतं मयि ॥

०५ शतपाशां वि तनोम्य्

विश्वास-प्रस्तुतिः ...{Loading}...

शतपाशां वि तनोम्य्
ऊरुभ्यां जघनेन च ।
तस्मिन् यो बध्यते बन्धे
स मे अस्त्व् अन्यक्षकः ॥