१११

सर्वाष् टीकाः ...{Loading}...

०१ न्यग् वातो वाति

विश्वास-प्रस्तुतिः ...{Loading}...

न्यग् वातो वाति
न्यक् तपति सूर्यः ।
नीचीनम् अघ्न्या दुहे
न्यग् भवतु ते विषम् ॥

०२ नि गावो गोष्ठे

विश्वास-प्रस्तुतिः ...{Loading}...

नि गावो गोष्ठे असदन्
नि वत्सा अधि तन्त्याम् ।
न्य् ऊर्मयो नदीनां
नि शुष्मा अरसानाम् ॥

०३ अहीनाम् अहिकानां सम्

विश्वास-प्रस्तुतिः ...{Loading}...

अहीनाम् अहिकानां
सं हि शीर्षाण्य् अग्रभम् ।
ह्रदं सहस्रबाहुः परेत्य +++(emend. Hoffmann; Bhatt. hṛdaṃ)+++
व्य् अनिजम् अहेर् विषम् ॥

०४ तुराणाम् अतुराणां विशाम्

विश्वास-प्रस्तुतिः ...{Loading}...

तुराणाम् अतुराणां
विशाम् उरुक्षिताम् उत ।
कृणोमि तुभ्यं भेषजम्
आहेयम् अरसं विषम् ॥