११०

सर्वाष् टीकाः ...{Loading}...

०१ घृतस्य जूतिः समना

विश्वास-प्रस्तुतिः ...{Loading}...

घृतस्य जूतिः समना सदेवाः
संवत्सरं हविषा वर्धयन्ती ।
श्रोत्रं चक्षुः प्राणो अच्छिन्नो नो अस्त्व्
अच्छिन्ना वयम् आयुषो वर्चसः ॥

०२ उपास्मान् प्राणो ह्वयताम्

विश्वास-प्रस्तुतिः ...{Loading}...

उपास्मान् प्राणो ह्वयताम्
उप वयं प्राणं हवामहे ।
वर्चो जग्राह पृथिव्य् अन्तरिक्षं
वर्चः सोमो बृहस्पतिर् विधर्ता ॥

०३ वर्चसो द्यावापृथिवी सङ्ग्रहणी

विश्वास-प्रस्तुतिः ...{Loading}...

वर्चसो द्यावापृथिवी
संग्रहणी बभूवतुर्
वर्चो गृहीत्वा पृथिवीम् अनु सं चरेम ।
यशसा गावो गोपतिम्
उप तिष्ठन्त्य् आयतीर्
यशो गृहीत्वा पृथिवीम् अनु सं चरेम ॥

०४ व्रजं कृणुध्वं स

विश्वास-प्रस्तुतिः ...{Loading}...

व्रजं कृणुध्वं स हि वो नृपाणो
वर्मा सीव्यध्वं बहुला पृथूनि ।
पुरः कृणुध्वम् आयसीर् अधृष्टा
मा वः सुस्रोच् चमसो दृंहता तम् ॥