१०८

सर्वाष् टीकाः ...{Loading}...

०१ अप न्य् अधुः

विश्वास-प्रस्तुतिः ...{Loading}...

अप न्य् अधुः पौरुषेयं वधं मद्
इन्द्राग्नी धाता सविता बृहस्पतिः ।
सोमो राजा वरुणो अश्विना यमः
पूषास्मान् परि पातु मृत्योः ॥

०२ यानि चकार भुवनस्य

विश्वास-प्रस्तुतिः ...{Loading}...

यानि चकार भुवनस्य यस् पतिः
प्रजापतिर् मातरिश्वा प्रजाभ्यः ।
प्रदिशो यानि वसते दिशश् च
तानि मे वर्माणि बहुलानि सन्तु ॥

०३ यत् तनुष्व् अनह्यन्त

विश्वास-प्रस्तुतिः ...{Loading}...

यत् तनुष्व् अनह्यन्त
देवा द्विराजयोधिनः ।
इन्द्रो यच् चक्रे वर्म
तद् अस्मान् पातु विश्वतः ॥

०४ वर्म मे द्यावापृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

वर्म मे द्यावापृथिवी
वर्माहर् वर्म सूर्यः ।
वर्म मे विश्वे देवाः क्रन्
मा मा प्रापत् प्रतीचिका ॥