१०७

सर्वाष् टीकाः ...{Loading}...

०१ वातस्य नु महिमा

विश्वास-प्रस्तुतिः ...{Loading}...

वातस्य नु महिमा रथस्य-
-आरुजन्न् एति स्तनयन्न् अस्य घोषः ।
दिवस्पृग् एत्य् अरुणानि कृण्वन्न्
अथो एति पृथिव्या रेणुम् अस्यन् ॥

०२ सं प्रेरते अनु

विश्वास-प्रस्तुतिः ...{Loading}...

सं प्रेरते अनु वातस्य विष्ठा +++(viṣṭhā with RV; Bhatt. viṣṭhām)+++
ऐनं गच्छन्ति समनेव योषाः ।
ताभिर् विद्वान् सरथं देव ईयते
पतिर् विश्वस्य भुवनस्य गोपाः ॥

०३ आत्मा देवानां भुवनस्य

विश्वास-प्रस्तुतिः ...{Loading}...

आत्मा देवानां भुवनस्य गोपा
यथावशं चरति देव एषः ।
घोष इद् अस्य श्रूयते न रूपं
तस्मै देवाय हविषा विधेम ॥ +++(K tasmai vātāya)+++

०४ अन्तरिक्षे पथिभिर् ईयमानो

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तरिक्षे पथिभिर् ईयमानो
न नि विशते कतमच् चनाहः ।
अपां योनिः प्रथमजा ऋतस्य
क्व स्विज् जातः कुत आ बभूव ॥

०५ अन्तरिक्षे पतयन्तं वात

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तरिक्षे पतयन्तं
वात त्वाम् आशुम् आशुभिः ।
पश्यन्ति सर्वे चक्षुषा
न सर्वे मनसा विदुः ॥

०६ उपत्रिकं सञ्चविचं त्रिर्यमम्

विश्वास-प्रस्तुतिः ...{Loading}...

उपत्रिकं संचविचं
त्रिर्यमं चतुरेकजम् ।
तं मातरिश्वानं देवं
दिवो देवा अवासृजन् ॥