सर्वाष् टीकाः ...{Loading}...
०१ आयम् अगन् संवत्सरः
विश्वास-प्रस्तुतिः ...{Loading}...
आयम् अगन् संवत्सरः
पतिर् एकाष्टके तव ।
तस्मै देवाय हविषा विधेम
स उ नः शर्म यच्छतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयम् अगन् संवत्सरः
पतिर् एकाष्टके तव ।
तस्मै देवाय हविषा विधेम
स उ नः शर्म यच्छतु ॥
सर्वाष् टीकाः ...{Loading}...
०२ एकाष्टकायै हविषा विधेम
विश्वास-प्रस्तुतिः ...{Loading}...
एकाष्टकायै हविषा विधेम
य र्तून् पञ्चानु प्रविष्टा ।
सस्येन सस्यम् उपसंचरन्तो
अरिष्टास ऋतुन र्तुम् उप सं चरेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
एकाष्टकायै हविषा विधेम
य र्तून् पञ्चानु प्रविष्टा ।
सस्येन सस्यम् उपसंचरन्तो
अरिष्टास ऋतुन र्तुम् उप सं चरेम ॥
सर्वाष् टीकाः ...{Loading}...
०३ वसन्तो ग्रीष्मो मधुमन्त
विश्वास-प्रस्तुतिः ...{Loading}...
वसन्तो ग्रीष्मो मधुमन्त वर्षाः
शरद् धेमन्त ऋतवो नो जुषन्ताम् ।
आ नो गोषु भजन्त्व् आ प्रजायां
सुशर्मण्य् एषां त्रिवरूथे स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
वसन्तो ग्रीष्मो मधुमन्त वर्षाः
शरद् धेमन्त ऋतवो नो जुषन्ताम् ।
आ नो गोषु भजन्त्व् आ प्रजायां
सुशर्मण्य् एषां त्रिवरूथे स्याम ॥
सर्वाष् टीकाः ...{Loading}...
०४ एकाष्टका तपसा तप्यमाना
विश्वास-प्रस्तुतिः ...{Loading}...
एकाष्टका तपसा तप्यमाना
जजान गर्भं महिमानम् इन्द्रम् ।
तेन देवा व्य् अषहन्त शत्रून्
हन्तासुराणाम् अभवच् छचीपतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
एकाष्टका तपसा तप्यमाना
जजान गर्भं महिमानम् इन्द्रम् ।
तेन देवा व्य् अषहन्त शत्रून्
हन्तासुराणाम् अभवच् छचीपतिः ॥
सर्वाष् टीकाः ...{Loading}...
०५ पूर्णा दर्वे परा
विश्वास-प्रस्तुतिः ...{Loading}...
पूर्णा दर्वे परा पत
सुपूर्णा पुनर् आ पत ।
सर्वान् यज्ञान् सं पृञ्चति-
-इषम् ऊर्जं न आ भर ॥
मूलम् ...{Loading}...
मूलम् (GR)
पूर्णा दर्वे परा पत
सुपूर्णा पुनर् आ पत ।
सर्वान् यज्ञान् सं पृञ्चति-
-इषम् ऊर्जं न आ भर ॥
सर्वाष् टीकाः ...{Loading}...
०६ इषम् ऊर्जं न
विश्वास-प्रस्तुतिः ...{Loading}...
इषम् ऊर्जं न आभृत्य-
-इडया पशुभिः सह ।
सरस्वति त्वम् अस्मासु
रायस्पोषं नि यच्छ ॥
मूलम् ...{Loading}...
मूलम् (GR)
इषम् ऊर्जं न आभृत्य-
-इडया पशुभिः सह ।
सरस्वति त्वम् अस्मासु
रायस्पोषं नि यच्छ ॥