१०५

सर्वाष् टीकाः ...{Loading}...

०१ वानस्पत्या ग्रावाणो घोषम्

विश्वास-प्रस्तुतिः ...{Loading}...

वानस्पत्या ग्रावाणो घोषम् अक्रत
हविष् कृण्वन्तः परिवत्सरीणम् ।
एकाष्टके सुप्रजसः सुवीरा
वयं स्याम पतयो रयीणाम् ॥

०२ इडायास् पदं घृतवत्

विश्वास-प्रस्तुतिः ...{Loading}...

इडायास् पदं घृतवत् सरीसृपं
जातवेदः प्रति हव्या गृभाय ।
ये ग्राम्याः पशवो विश्वरूपास्
तेषां सप्तानां मयि रन्तिर् अस्तु ॥

०३ इडया जुह्वतो हविर्

विश्वास-प्रस्तुतिः ...{Loading}...

इडया जुह्वतो हविर्
देवान् घृतवता यजे ।
गृहान् अलुभ्यतो वयं
दृषदोमोप गोमतः ॥

०४ यज र्तुभ्य आर्तवेभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

यज र्तुभ्य आर्तवेभ्यो
माद्भ्यः संवत्सराय च ।
धात्रे विधर्त्रे समृधे
भूतस्य पतये यज ॥ (Bhatt. yaje* with ŚS)