सर्वाष् टीकाः ...{Loading}...
०१ प्रथमा ह व्य्
विश्वास-प्रस्तुतिः ...{Loading}...
प्रथमा ह व्य् उवास
सा धेनुर् अभवद् यमे ।
सा नः पयस्वती दुहा
उत्तरामुत्तरां समाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रथमा ह व्य् उवास
सा धेनुर् अभवद् यमे ।
सा नः पयस्वती दुहा
उत्तरामुत्तरां समाम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यां देवाः प्रतिनन्दन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
यां देवाः प्रतिनन्दन्ति
धेनुं रात्रीम् उपायतीम् । (Bhatt. upāyatīḥ)
संवत्सरस्य या पत्नी
सा नो अस्तु सुमङ्गली ॥
मूलम् ...{Loading}...
मूलम् (GR)
यां देवाः प्रतिनन्दन्ति
धेनुं रात्रीम् उपायतीम् । (Bhatt. upāyatīḥ)
संवत्सरस्य या पत्नी
सा नो अस्तु सुमङ्गली ॥
सर्वाष् टीकाः ...{Loading}...
०३ संवत्सरस्य प्रतिमां ये
विश्वास-प्रस्तुतिः ...{Loading}...
संवत्सरस्य प्रतिमां
ये त्वा रात्र्य् उपासते ।
तेषाम् आयुष्मतीं प्रजां
रायस्पोषेण सं सृज ॥
मूलम् ...{Loading}...
मूलम् (GR)
संवत्सरस्य प्रतिमां
ये त्वा रात्र्य् उपासते ।
तेषाम् आयुष्मतीं प्रजां
रायस्पोषेण सं सृज ॥
सर्वाष् टीकाः ...{Loading}...
०४ इयम् एव सा
विश्वास-प्रस्तुतिः ...{Loading}...
इयम् एव सा या प्रथमा व्यौच्छत्
साप्स्व् अन्तर् आसु चरति प्रविष्टा ।
वधूर् जिगाय नवगज् जनित्री
त्रय एनां महिमानः सचन्ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयम् एव सा या प्रथमा व्यौच्छत्
साप्स्व् अन्तर् आसु चरति प्रविष्टा ।
वधूर् जिगाय नवगज् जनित्री
त्रय एनां महिमानः सचन्ते ॥