१०२

सर्वाष् टीकाः ...{Loading}...

०१ पौर्णमासी प्रथमा यज्ञियासीद्

विश्वास-प्रस्तुतिः ...{Loading}...

पौर्णमासी प्रथमा यज्ञियासीद्
अह्नां रात्रीणाम् अतिशर्वरेषु ।
ये त्वां यज्ञैर् यज्ञिये बोधयन्त्य् (Bhatt. yajñena)
अमी ते नाकं सुकृतः परेताः ॥

०२ पूर्णा पश्चाद् उत

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्णा पश्चाद् उत पूर्णा पुरस्तात्
पौर्णमासी मध्यत उज् जिगाय ।
तस्यां देवैः संवसन्तो महित्वा
नाकस्य पृष्ठे सम् इषा मदेम ॥

०३ चतस्रो दिशः प्रदिशो

विश्वास-प्रस्तुतिः ...{Loading}...

चतस्रो दिशः प्रदिशो ह पञ्च
षड् उर्वीर् आहू रजसो विमानीः ।
द्वादश र्तव आर्तवाश् च ते मा-
-आ प्याययन्तु भुवनस्य गोपाः ॥

०४ यथादित्या अंशुम् आप्याययन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

यथादित्या अंशुम् आप्याययन्ति
यम् अक्षितम् अक्षितयः पिबन्ति ।
एवा माम् इन्द्रो वरुणो बृहस्पतिर्
आ प्याययन्तु भुवनस्य गोपाः ॥