०९९

सर्वाष् टीकाः ...{Loading}...

०१ अपोच्छन्ती दुष्वप्न्यम् अप

विश्वास-प्रस्तुतिः ...{Loading}...

अपोच्छन्ती दुष्वप्न्यम् (Bhatt. duḥṣvapnyam)
अप दुर्हार्दम् उच्छतम् ।
अपोष्टं सर्वं क्षेत्रियं
सर्वाश् च यातुधान्यः ॥

०२ उद् अगातां भगवती

विश्वास-प्रस्तुतिः ...{Loading}...

उद् अगातां भगवती
विचृतौ नाम तारके ।
वि क्षेत्रियस्य मुञ्चतां
संग्रन्थिं हृदयस्य च ॥

०३ नमो अस्तु वरत्राभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

नमो अस्तु वरत्राभ्यो
नम ईषायुगेभ्यः ।
मृगायारण्ये तिष्ठते
क्षेत्रियायाकरं नमः ॥

०४ आखोर् इदं क्षैत्रपत्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

आखोर् इदं क्षैत्रपत्यं
मनोश् च मानवस्य च ।
मनः सर्वस्य पश्यत
इह भूयः स्याद् इति ॥