सर्वाष् टीकाः ...{Loading}...
०१ यथा मृगं रोपयसि
विश्वास-प्रस्तुतिः ...{Loading}...
यथा मृगं रोपयसि
तिरश् चर्मातिविध्यसि ।
एवा त्वम् उग्र ओषधे
अमुं रोपय माम् अभि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा मृगं रोपयसि
तिरश् चर्मातिविध्यसि ।
एवा त्वम् उग्र ओषधे
अमुं रोपय माम् अभि ॥
सर्वाष् टीकाः ...{Loading}...
०२ बन्धश् चेमा उपधिश्
विश्वास-प्रस्तुतिः ...{Loading}...
बन्धश् चेमा उपधिश् च
मधुमन् नौ समञ्जनम् ।
द्वारौ भगस्येमा ऊरू
मृगस् तृष्यन्न् इवा चर ॥ +++(Bhatt. tuṣyann; tṛṣyann with K; )+++
मूलम् ...{Loading}...
मूलम् (GR)
बन्धश् चेमा उपधिश् च
मधुमन् नौ समञ्जनम् ।
द्वारौ भगस्येमा ऊरू
मृगस् तृष्यन्न् इवा चर ॥ +++(Bhatt. tuṣyann; tṛṣyann with K; )+++
सर्वाष् टीकाः ...{Loading}...
०३ अभि त्वाधाम् अभिधिना
विश्वास-प्रस्तुतिः ...{Loading}...
अभि त्वाधाम् अभिधिना
जालेनेव महाजषम् ।
यथा मम क्रताव् असो
मम चित्ते सचावहै ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभि त्वाधाम् अभिधिना
जालेनेव महाजषम् ।
यथा मम क्रताव् असो
मम चित्ते सचावहै ॥
सर्वाष् टीकाः ...{Loading}...
०४ अहं वै त्वद्
विश्वास-प्रस्तुतिः ...{Loading}...
अहं वै त्वद् उत्तरास्म्य्
अध त्वम् उपधिर् मम ।
सं नौ बध्नामि संबन्धनेन
यथासावाविचर्त्याव्
आ मृत्योर् आ परावतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं वै त्वद् उत्तरास्म्य्
अध त्वम् उपधिर् मम ।
सं नौ बध्नामि संबन्धनेन
यथासावाविचर्त्याव्
आ मृत्योर् आ परावतः ॥