०९७

सर्वाष् टीकाः ...{Loading}...

०१ अस्माञ् जुषध्वम् असवो

विश्वास-प्रस्तुतिः ...{Loading}...

अस्माञ् जुषध्वम् असवो ऽद्य +++(Bhatt. asmāṃ)+++
मा नः पुरा जरसो ऽसवो वधिष्ट । +++(emend. Renou 1965; Bhatt. vadhiṣṭha)+++
पाका गृणीमस् तव वीर्याय
शतं हिमान् अधिपतिर् न एहि ॥

०२ उन् मृणो अगाद्

विश्वास-प्रस्तुतिः ...{Loading}...

उन् मृणो अगाद् आर्जुनम् अगात्
सुश्रुद् भगवो गोपाय मा ।
अह्ने ऽद्यात्मानं परि ददे
सूर्यप्राणो भवामि ॥

०३ नि मृणो अगाद्

विश्वास-प्रस्तुतिः ...{Loading}...

नि मृणो अगाद् आसितम् अगात्
सुश्रुद् भगवो गोपाय मा ।
रात्रये ऽद्यात्मानं परि ददे
अग्निप्राणो भवामि ॥

०४ अनाभूर् अस्य् अनाभो

विश्वास-प्रस्तुतिः ...{Loading}...

अनाभूर् अस्य् अनाभो
ऽनाभुवो भूयास्म ।
स यत्र त्वं प्रजापते
त्रिर् एकस्याह्नः प्रजाः संपश्यसि ।
तत्र माम् अपि सं पश्य-
-अनष्टपशुर् भुवनस्य गोपाः ॥