०९६

सर्वाष् टीकाः ...{Loading}...

०१ रायस्पोषं धेहि नो

विश्वास-प्रस्तुतिः ...{Loading}...

रायस्पोषं धेहि नो जातवेद
ऊर्जावद् अग्ने यशः सूनृतावत् ।
दधाम भागं सुनवाम सोमं
यज्ञेन त्वाम् उप शिक्षेम शक्र ॥

०२ वयम् अग्ने धनवन्तः

विश्वास-प्रस्तुतिः ...{Loading}...

वयम् अग्ने धनवन्तः स्याम-
-अलं यज्ञायोत दक्षिणायै ।
ग्रावा वदेद् अभि सोमस्यांशून्
एन्द्रं शिक्षेमेन्दुना सुतेन ॥

०३ ईशानं त्वा शुश्रुमा

विश्वास-प्रस्तुतिः ...{Loading}...

ईशानं त्वा शुश्रुमा वयं पुरो
धनानां धनपते ।
गोमद् अग्ने अश्ववद् भूरि पुष्टं
हिरण्यवद् अन्नवद् धेहि मह्यम् ॥

०४ दुहां मे द्यौः

विश्वास-प्रस्तुतिः ...{Loading}...

दुहां मे द्यौः पृथिवी पयो
ऽजगरो मा सोदको ऽभि वि सर्पतु ।
प्रजापतिना तन्वम्
आ प्रीणे ऽरिष्टो म आत्मा ॥