०९५

सर्वाष् टीकाः ...{Loading}...

०१ रुद्र मा त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

रुद्र मा त्वा जीहिडाम सुष्टुत्या (Bhatt. jihīḍāma*)
मघवन् मा सहूत्या । (Bhatt. suhūtyā+)
भिषक्तमं त्वा भिषजां शृणोम्य्
उन् नो वीराꣳ ईरय भेषजेभिः ॥

०२ रुद्र यत् ते

विश्वास-प्रस्तुतिः ...{Loading}...

रुद्र यत् ते गुह्यं नाम
यत् ते अद्धातयो विदुः ।
शिवा शरव्या या तव
तया नो मृड जीवसे ॥

०३ अग्निं त्वाहुर् वैश्वानरम्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निं त्वाहुर् वैश्वानरं
सदनान् प्रदहन् व् अगाः । (Bhatt. pradahan nv)
स नो देवत्राधि ब्रूहि
मा रिषामा वयं तव ॥

०४ या देवैः प्रहितेषुः

विश्वास-प्रस्तुतिः ...{Loading}...

या देवैः प्रहितेषुः पतात्
तपसे वा महसे वावसृष्टा ।
सोमस् त्वाम् अस्मद् यावयतु विद्वान्
अवन्तु नः पितरो देवहूतिषु ॥