सर्वाष् टीकाः ...{Loading}...
०१ त्रिष् कुष्ठासि वृत्राज्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिष् कुष्ठासि वृत्राज् जातस्
त्रिर् दिवस् परि जज्ञिषे । +++(Bhatt. jajñire)+++
त्रिः सोमाज् जज्ञिषे त्वं
त्रिर् आदित्येभ्यस् परि ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रिष् कुष्ठासि वृत्राज् जातस्
त्रिर् दिवस् परि जज्ञिषे । +++(Bhatt. jajñire)+++
त्रिः सोमाज् जज्ञिषे त्वं
त्रिर् आदित्येभ्यस् परि ॥
सर्वाष् टीकाः ...{Loading}...
०२ जीवलं नघारिषं जयत्कम्
विश्वास-प्रस्तुतिः ...{Loading}...
जीवलं नघारिषं
जयत्कम् अपराजितम् ।
तं त्वामृतस्येशानं
राजन् कुष्ठा वदामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
जीवलं नघारिषं
जयत्कम् अपराजितम् ।
तं त्वामृतस्येशानं
राजन् कुष्ठा वदामसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ अन्तरा द्यावापृथिवी अन्तरिक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तरा द्यावापृथिवी
अन्तरिक्षम् इदं महत् ।
तत्रामृतस्येशानं
कुष्ठं देवा अबध्नत ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्तरा द्यावापृथिवी
अन्तरिक्षम् इदं महत् ।
तत्रामृतस्येशानं
कुष्ठं देवा अबध्नत ॥
सर्वाष् टीकाः ...{Loading}...
०४ कुष्ठो ऽसि देवकृतो
विश्वास-प्रस्तुतिः ...{Loading}...
कुष्ठो ऽसि देवकृतो
हिमवद्भ्यो निराभृतः ।
तीक्ष्णाभिर् अभ्रिभिः खातः +++(Bhatt. khātuḥ)+++
स चकर्थारसं विषम् ॥ +++(Bhatt. cakartārasaṃ)+++
मूलम् ...{Loading}...
मूलम् (GR)
कुष्ठो ऽसि देवकृतो
हिमवद्भ्यो निराभृतः ।
तीक्ष्णाभिर् अभ्रिभिः खातः +++(Bhatt. khātuḥ)+++
स चकर्थारसं विषम् ॥ +++(Bhatt. cakartārasaṃ)+++