सर्वाष् टीकाः ...{Loading}...
०१ आगन्मेमां समितिं विश्वरूपाम्
विश्वास-प्रस्तुतिः ...{Loading}...
आगन्मेमां समितिं विश्वरूपां
यस्यां पूर्वम् अवदद् देव एकः ।
सा नः सूक्तैर् जुजुषाणा समीच्य्
अस्मान् वृणीतां सुमनस्यमाना ॥
मूलम् ...{Loading}...
मूलम् (GR)
आगन्मेमां समितिं विश्वरूपां
यस्यां पूर्वम् अवदद् देव एकः ।
सा नः सूक्तैर् जुजुषाणा समीच्य्
अस्मान् वृणीतां सुमनस्यमाना ॥
सर्वाष् टीकाः ...{Loading}...
०२ इयं देवी समितिर्
विश्वास-प्रस्तुतिः ...{Loading}...
इयं देवी समितिर् विश्वरूपा
शिल्पं कृण्वाना चरति जनेषु ।
तां राजानः कवयो हृत्सु केतैर्
अराजानश् च वदनैः पुनन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
इयं देवी समितिर् विश्वरूपा
शिल्पं कृण्वाना चरति जनेषु ।
तां राजानः कवयो हृत्सु केतैर्
अराजानश् च वदनैः पुनन्ति ॥
सर्वाष् टीकाः ...{Loading}...
०३ अग्निं सामित्यम् उप
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निं सामित्यम् उप सं सदेम
वाचा प्रियं मधुमत्या वदन्तः ।
सोमो राजा वरुणो मित्रधर्मा
मयि श्रेमाणम् उप सं नमन्तु ॥ +++(emend. Bhatt. (footnote))+++
मूलम् ...{Loading}...
मूलम् (GR)
अग्निं सामित्यम् उप सं सदेम
वाचा प्रियं मधुमत्या वदन्तः ।
सोमो राजा वरुणो मित्रधर्मा
मयि श्रेमाणम् उप सं नमन्तु ॥ +++(emend. Bhatt. (footnote))+++
सर्वाष् टीकाः ...{Loading}...
०४ यो वः शुष्मो
विश्वास-प्रस्तुतिः ...{Loading}...
यो वः शुष्मो हृदये
यो बाह्वोर् यश् च चक्षुषि ।
जिह्वाया अग्रे यो मन्युस्
तं वो वि नयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो वः शुष्मो हृदये
यो बाह्वोर् यश् च चक्षुषि ।
जिह्वाया अग्रे यो मन्युस्
तं वो वि नयामसि ॥