०९०

सर्वाष् टीकाः ...{Loading}...

०१ असितस्य विद्रधस्य लोहितस्य

विश्वास-प्रस्तुतिः ...{Loading}...

असितस्य विद्रधस्य
लोहितस्य वनस्पते ।
विसल्पकस्यौषधे
मोच् छिषः पिशितं चन ॥

०२ यत् ते बलास

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते बलास तिष्ठतः
कक्षे मुष्काव् अपाकृतम् ।
वेदाहं तस्य भेषजं
चीपद्राम् अभिचक्षणम् ॥

०३ निर् बलासं बलासिनो

विश्वास-प्रस्तुतिः ...{Loading}...

निर् बलासं बलासिनो
विसल्पम् उत विद्रधम् ।
परोपहत्यां ते वयं
परा यक्ष्मं सुवामसि ॥

०४ शीर्षरोगम् अङ्गरोगं शुक्तिवल्गम्

विश्वास-प्रस्तुतिः ...{Loading}...

शीर्षरोगम् अङ्गरोगं
शुक्तिवल्गं विलोहितम् ।
परा ते अज्ञातं यक्ष्मम्
अधराञ्चं सुवामसि ॥