०८८

सर्वाष् टीकाः ...{Loading}...

०१ यज्ञपतिम् ऋषय एनसाहुर्

विश्वास-प्रस्तुतिः ...{Loading}...

यज्ञपतिम् ऋषय एनसाहुर्
निर्भक्ता भागाद् अनुतप्यमानाः ।
यद् एनश् चकृवान् बद्ध एष
ततो विश्वकर्मन् प्र मुमुग्ध्य् एनम् ॥

०२ अदान्यान् सोमपान् मन्यमानो

विश्वास-प्रस्तुतिः ...{Loading}...

अदान्यान् सोमपान् मन्यमानो
यज्ञस्य विद्वान् समये न धीरः ।
मधव्यान् स्तोकान् अप यान् रराध
सं मा तैः सृजतु विश्वकर्मा ॥

०३ ये भक्षयन्तो न

विश्वास-प्रस्तुतिः ...{Loading}...

ये भक्षयन्तो न वसून्य् आनृधुर्
यान् अग्नयो अन्वतप्यन्त धिष्ण्याः । (Bhatt. dhṛṣṇyā ।)
या तेषाम् अवया दुरिष्टात्
स्विष्टं तद् विश्वकर्मा कृणोतु ॥

०४ भीमा ऋषयो नमो

विश्वास-प्रस्तुतिः ...{Loading}...

भीमा ऋषयो नमो अस्त्व् एभ्यश्
चक्षुर् यद् एषां मनसश् च संदृक् ।
बृहस्पतये महिषाय दिवे नमो
विश्वकर्मन् नमस् ते पाह्य् अस्मान् ॥