०८७

सर्वाष् टीकाः ...{Loading}...

०१ त्वं दर्भासि पतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं दर्भासि पतिर् ओषधीनां
विभिन्दन् यासि कन्या इवैनाम् ।
भिन्धि शिरः कृमेर् जायान्यस्य
शरीरं भिन्ध्य् उत भिन्ध्य् अस्थि ॥

०२ यः कीकसास्थो विरदात्

विश्वास-प्रस्तुतिः ...{Loading}...

यः कीकसास्थो विरदात् परूंषि (Bhatt. kīkasāsthno*)
यस्योद्धार उष्णिहास् ता हि वव्रे ।
हनिष्यामि वां निर् अतः परेतं
तृणान्य् अत्तम् अवसीरिणाम् इव ॥

०३ अयं य आस्ते

विश्वास-प्रस्तुतिः ...{Loading}...

अयं य आस्ते जठरेष्व् अन्तः
कास्फीवशं निरजं मर्त्यस्य । (Bhatt. nirujaṃ)
हनिष्यामि वां निर् अतः परेतं
स्तायद् एयथुः प्रति वाम् अभुत्सि ॥

०४ येनेयथुस् तेन पथा

विश्वास-प्रस्तुतिः ...{Loading}...

येनेयथुस् तेन पथा परेतं
स्तायद् एयथुः प्रति वाम् अभुत्सि ।
ब्रह्मणा वां परितृह्य समन्तं
वि च्छेत्स्यामि नकुल इव सर्पम् ॥