०८२

सर्वाष् टीकाः ...{Loading}...

०१ अग्नेः प्रजातं परि

विश्वास-प्रस्तुतिः ...{Loading}...

अग्नेः प्रजातं परि यद् धिरण्यम्
अमृतं दध्रे अधि मर्त्येषु ।
य एनद् वेद स इद् एनद् अर्हति
जरामृत्युर् भवति यो बिभर्ति ॥

०२ यद् धिरण्यं सूर्येण

विश्वास-प्रस्तुतिः ...{Loading}...

यद् धिरण्यं सूर्येण सुवर्णं
प्रजावन्तो मनवः पूर्व ईषिरे ।
तत् त्वा चन्द्रं वर्चसा सं सृजात्य्
आयुष्मान् भवति यो बिभर्ति ॥

०३ आयुषे त्वा वर्चसे

विश्वास-प्रस्तुतिः ...{Loading}...

आयुषे त्वा वर्चसे त्वा-
-ओजसे च बलाय च ।
यथा हिरण्य तेजसा
विभासासि जनाꣳ अनु ॥

०४ यद् वेद राजा

विश्वास-प्रस्तुतिः ...{Loading}...

यद् वेद राजा वरुणो
वेद देवो बृहस्पतिः ।
इन्द्रो यद् वृत्रहा वेद
तत् त आयुष्यं भुवत्
तत् ते वर्चस्यं भुवत् ॥