०८०

सर्वाष् टीकाः ...{Loading}...

०१ सम्पश्यमाना अमृताय आयन्

विश्वास-प्रस्तुतिः ...{Loading}...

संपश्यमाना अमृताय आयन्
शुद्धा योनिभ्यस् परि जायमानाः ।
शिवं कृण्वाना उप जिघ्रतेमं
वीरं वीरेष्व् अप्य् आ कृणुध्वम् ॥

०२ शिवो वो वीर

विश्वास-प्रस्तुतिः ...{Loading}...

शिवो वो वीर इह जातो अस्तु
शुद्धो योनिभ्यस् परि जायमानः ।
अरिष्टो ऽयं वर्धतां सर्वम् आयुर्
वर्म ज्यायोभ्यो हविषा कृणोतु ॥

०३ जरां मृत्युं प्रेप्सतु

विश्वास-प्रस्तुतिः ...{Loading}...

जरां मृत्युं प्रेप्सतु जीव एष
नास्य क्रिमिर् ईशातो नोत जम्भः ।
संरभ्य जीव शरदः सुवर्चा
अग्निष् टे गोपा अधिपा वसिष्ठः ॥

०४ जरामृत्युर् जरायुर् जराचक्षुर्

विश्वास-प्रस्तुतिः ...{Loading}...

जरामृत्युर् जरायुर् जराचक्षुर् जरास्वः ।
जरसे त्वा जरदष्टिं परि ददामि ॥

०५ द्यौष् टे पिता

विश्वास-प्रस्तुतिः ...{Loading}...

द्यौष् टे पिता पृथिवी मातान्तरिक्षम् आत्मा ।
वातः प्राणः सूर्यश् चक्षुर् दिवस् पयः ।
सुपर्णस् त्वाभ्य् अव पश्याद् आयुषे वर्चसे
ऽयम् अन्नस्यान्नपतिर् अस्तु वीरः ॥