०७८

सर्वाष् टीकाः ...{Loading}...

०१ धातारम् इन्द्रं सवितारम्

विश्वास-प्रस्तुतिः ...{Loading}...

धातारम् इन्द्रं सवितारम् ऊतये
हुवे देवाँ अमृतान् मर्त्यः सन् ।
श्रेष्ठे नो वसवो धत्त धाम्नि +++(emend. Renou 1965; Bhatt. śreṣṭho)+++
मा रधाम द्विषते मो अरातये ॥

०२ अधि ब्रवीत्व् अधिवक्ता

विश्वास-प्रस्तुतिः ...{Loading}...

अधि ब्रवीत्व् अधिवक्ता न इन्द्रो
अधि ब्रवीतु सविता दैव्येन ।
स्वस्ति मित्रावरुणा च धत्तां
रात्रिंरात्रिम् अहरहश् च देवाः ॥

०३ अधि ब्रवीतु पृथिवी

विश्वास-प्रस्तुतिः ...{Loading}...

अधि ब्रवीतु पृथिवी उत द्यौर्
अधि ब्रुवन्तु मरुतः पृश्निमातरः ।
यो नो द्वेष्ट्य् अरणो यः सनाभिः
पविर् इव नेमेर् अधरः सो अस्तु ॥

०४ यस्य त्रया गतम्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य त्रया गतम् अनुप्रयन्ति
देवा मनुष्याः पशवश् च सर्वे ।
तन् नो देवं मनो अधि ब्रवीतु
सुनीति नो नयतु द्विषते मा रधाम ॥ +++(sunīti Griffiths 2004, 76)+++