०७७

सर्वाष् टीकाः ...{Loading}...

०१ इन्द्र क्षत्रम् अभि

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र क्षत्रम् अभि वामम् ओजो
ऽजायथा वृषभ चर्षणीनाम् ।
अपानुदो जनम् अमित्रयन्तम्
उरुं देवेभ्यो अकृणोर् उलोकम् ॥

०२ मृगो न भीमः

विश्वास-प्रस्तुतिः ...{Loading}...

मृगो न भीमः कुचरो गिरिष्ठाः
परावत आ जगामा परस्याः ।
सृकं संशाय पविम् इन्द्र तिग्मं
वि शत्रून् ताढि वि मृधो नुदस्व ॥ +++(Bhatt. tāḍi)+++

०३ अंहोमुचे प्र भरे

विश्वास-प्रस्तुतिः ...{Loading}...

अंहोमुचे प्र भरे मनीषाम्
आ सुत्राम्णे सुमतिम् आवृणानः । +++(Bhatt. śutrāmṇe)+++
इदम् इन्द्र प्रति हव्यं गृभाय
सत्याः सन्तु यजमानस्य कामाः ॥

०४ अंहोमुचं वृषभं यज्ञियानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

अंहोमुचं वृषभं यज्ञियानां +++(Bhatt. yajñānāṃ)+++
विराजन्तं प्रथमम् अध्वराणाम् ।
अपां नपातम् अश्विनौ हुवे धिय
इन्द्रियेण न इन्द्रियं धत्तम् ओजः ॥ +++(indriyeṇa with K; Bhatt. indreṇa)+++