सर्वाष् टीकाः ...{Loading}...
०१ वि बाधस्व दृंहस्व
विश्वास-प्रस्तुतिः ...{Loading}...
वि बाधस्व दृंहस्व वीडयस्व- (emend. Renou 1965; Bhatt. vrīḍayasva-)
-अधस्पदं शत्रवस् ते भवन्तु ।
सपत्नसाह ऋषभो जनाषाड्
उग्रश् चेत्ता पञ्च कृष्टीर् वि राज ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि बाधस्व दृंहस्व वीडयस्व- (emend. Renou 1965; Bhatt. vrīḍayasva-)
-अधस्पदं शत्रवस् ते भवन्तु ।
सपत्नसाह ऋषभो जनाषाड्
उग्रश् चेत्ता पञ्च कृष्टीर् वि राज ॥
सर्वाष् टीकाः ...{Loading}...
०२ शिवं क्षेत्रम् अनमीवम्
विश्वास-प्रस्तुतिः ...{Loading}...
शिवं क्षेत्रम् अनमीवं ते अस्तु-
-उत्तमे नाके अधि तिष्ठेहि ।
पुत्रान् भ्रातॄन् बहुलान् पश्यमानो
विश्वे त्वा देवा इह धारयन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
शिवं क्षेत्रम् अनमीवं ते अस्तु-
-उत्तमे नाके अधि तिष्ठेहि ।
पुत्रान् भ्रातॄन् बहुलान् पश्यमानो
विश्वे त्वा देवा इह धारयन्तु ॥
सर्वाष् टीकाः ...{Loading}...
०३ त्वष्टा रूपेण सविता
विश्वास-प्रस्तुतिः ...{Loading}...
त्वष्टा रूपेण सविता सवेन-
-अहर् मित्रेण वरुणेन रात्री ।
इन्द्रो ज्यैष्ठ्येन ब्रह्मणायं बृहस्पतिर् ।
धाता त्वा धीभिर् अभि रक्षत्व् इह ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वष्टा रूपेण सविता सवेन-
-अहर् मित्रेण वरुणेन रात्री ।
इन्द्रो ज्यैष्ठ्येन ब्रह्मणायं बृहस्पतिर् ।
धाता त्वा धीभिर् अभि रक्षत्व् इह ॥
सर्वाष् टीकाः ...{Loading}...
०४ वास्तोष्पत इह नः
विश्वास-प्रस्तुतिः ...{Loading}...
वास्तोष्पत इह नः शर्म यच्छ
घने वृत्राणां संगथे वसूनाम् ।
इहैवैधि ग्रामपतिर् जनाषाड्
विश्वैर् देवैर् गुपितो रक्षमाणः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वास्तोष्पत इह नः शर्म यच्छ
घने वृत्राणां संगथे वसूनाम् ।
इहैवैधि ग्रामपतिर् जनाषाड्
विश्वैर् देवैर् गुपितो रक्षमाणः ॥