०७३

सर्वाष् टीकाः ...{Loading}...

०१ दिवस् पृथिव्याः पर्य्

विश्वास-प्रस्तुतिः ...{Loading}...

दिवस् पृथिव्याः पर्य् अन्तरिक्षाद्
वनस्पतिभ्यो अध्य् ओषधीभ्यः ।
यत्रयत्र विभृतो जातवेदास्
ततस्ततो जुषमाणो न एहि ॥

०२ यस् ते अप्सु

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते अप्सु महिमा यो वनेषु
य ओषधीषु पशुष्व् अप्स्व् अन्तः ।
अग्ने सर्वास् तन्वः सं रभस्व
ताभिर् न एहि द्रविणोदा अजस्रः ॥

०३ यस् ते देवेषु

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते देवेषु महिमा स्वर्गो
या ते तनूः पितृष्व् आविवेश ।
पुष्टिर् या ते मनुष्येषु पप्रथे
ऽग्ने तया रयिम् अस्मासु धेहि ॥

०४ श्रुत्कर्णाय कवये वेद्याय

विश्वास-प्रस्तुतिः ...{Loading}...

श्रुत्कर्णाय कवये वेद्याय
वचोभिर् वाकैर् उप यामि रातिम् । +++(Bhatt. yāma)+++
यतो भयम् अभयं तन् नो अस्त्व्
अव देवानां यज हेडो अग्ने ॥