०६९

सर्वाष् टीकाः ...{Loading}...

०१ जायमानो निर् अरुजत्

विश्वास-प्रस्तुतिः ...{Loading}...

जायमानो निर् अरुजत्
सपत्नान् दोधतो ऽभयान् ।
स वै सपत्नानां सभा
अवालप्स्यो अनाशयत् ॥

०२ आराद् अरातिं कृणुते

विश्वास-प्रस्तुतिः ...{Loading}...

आराद् अरातिं कृणुते
अशस्तिम् अप बाधते ।
अवालप्स्यः स यो मणिः (Or. avālapsyasya yo)
सहस्वान् अभिमातिहा ॥

०३ चक्षुर् अस्य सूत्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

चक्षुर् अस्य सूत्रम् आसीत्
तर्द्म श्रोत्रम् उताभरत् ।
अवालप्स्यः स यो मणिः (Or. avālapsyasya yo)
सहस्वान् अभिमातिहा ॥

०४ इमं मणिम् आवालप्स्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं मणिम् आवालप्स्यं
यस्मिन्न् आरोहयामसि ।
स वै सपत्नान् आ दत्ते
स एनं पातु विश्वतः
स एनं जरसे नयात् ॥