सर्वाष् टीकाः ...{Loading}...
०१ यथा नडं कशिपुने
विश्वास-प्रस्तुतिः ...{Loading}...
यथा नडं कशिपुने
स्त्रियो भिन्दन्त्य् अश्मना ।
एवा भिनद्मि ते मुष्कौ
तस्मै त्वाम् अवसे हुवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा नडं कशिपुने
स्त्रियो भिन्दन्त्य् अश्मना ।
एवा भिनद्मि ते मुष्कौ
तस्मै त्वाम् अवसे हुवे ॥
सर्वाष् टीकाः ...{Loading}...
०२ त्वं वीरुधां श्रेष्ठतमा
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं वीरुधां श्रेष्ठतमा-
-अभिश्रुतास्य् ओषधे ।
सामुम् अद्य पूरुषं
क्लीबम् ओपशिनं कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वं वीरुधां श्रेष्ठतमा-
-अभिश्रुतास्य् ओषधे ।
सामुम् अद्य पूरुषं
क्लीबम् ओपशिनं कृधि ॥
सर्वाष् टीकाः ...{Loading}...
०३ क्लीबं कृध्य् ओपशिनम्
विश्वास-प्रस्तुतिः ...{Loading}...
क्लीबं कृध्य् ओपशिनम्
अथो कुरीरिणं कृधि ।
उभाभ्याम् अस्य ग्रावभ्याम्
इन्द्रो भिनत्त्व् आण्ड्यौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
क्लीबं कृध्य् ओपशिनम्
अथो कुरीरिणं कृधि ।
उभाभ्याम् अस्य ग्रावभ्याम्
इन्द्रो भिनत्त्व् आण्ड्यौ ॥
सर्वाष् टीकाः ...{Loading}...
०४ क्लीब क्लीबं त्वाकरम्
विश्वास-प्रस्तुतिः ...{Loading}...
क्लीब क्लीबं त्वाकरं
वध्रे वध्रिं त्वाकरम् ।
अरसारसं त्वाकरम्
अरसारसो ऽसि ।
कुरीरम् अस्य शीर्षणि
कुम्बं चाधि नि दध्मसि ॥ (Bhatt. kumbhaṃ)
मूलम् ...{Loading}...
मूलम् (GR)
क्लीब क्लीबं त्वाकरं
वध्रे वध्रिं त्वाकरम् ।
अरसारसं त्वाकरम्
अरसारसो ऽसि ।
कुरीरम् अस्य शीर्षणि
कुम्बं चाधि नि दध्मसि ॥ (Bhatt. kumbhaṃ)
सर्वाष् टीकाः ...{Loading}...
०५ ये ते नाड्यौ
विश्वास-प्रस्तुतिः ...{Loading}...
ये ते नाड्यौ देवकृते
ययोस् तिष्ठति वृष्ण्यम् ।
ते ते भिनद्मि शम्यया-
-अमुष्या अधि मुष्कयोः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये ते नाड्यौ देवकृते
ययोस् तिष्ठति वृष्ण्यम् ।
ते ते भिनद्मि शम्यया-
-अमुष्या अधि मुष्कयोः ॥