सर्वाष् टीकाः ...{Loading}...
०१ ध्रुवस् तिष्ठ भुवनस्य
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रुवस् तिष्ठ भुवनस्य गोप
मा सं विक्था वनस्पते ।
अत्रैव त्वम् इह वयं सुवीरा
विश्वा मृधो अभिमातीर् व्य् अस्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
ध्रुवस् तिष्ठ भुवनस्य गोप
मा सं विक्था वनस्पते ।
अत्रैव त्वम् इह वयं सुवीरा
विश्वा मृधो अभिमातीर् व्य् अस्य ॥
सर्वाष् टीकाः ...{Loading}...
०२ यो वानस्पत्यानाम् अधिपतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
यो वानस्पत्यानाम् अधिपतिर् बभूव
यस्मिन्न् इमा विश्वा भुवनान्य् आर्पिता ।
तम् अनज्मि मधुना दैव्येन
तस्मान् मणिं निर् ममे विश्वरूपम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो वानस्पत्यानाम् अधिपतिर् बभूव
यस्मिन्न् इमा विश्वा भुवनान्य् आर्पिता ।
तम् अनज्मि मधुना दैव्येन
तस्मान् मणिं निर् ममे विश्वरूपम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ इमं मणिं विश्वजितम्
विश्वास-प्रस्तुतिः ...{Loading}...
इमं मणिं विश्वजितं सुवीरम्
अस्माद् अश्वत्थात् पर्य् उद् भरामि ।
येन विश्वाः पृतनाः संजयान्य्
अथो द्युमत् समितिम् आ वदानि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमं मणिं विश्वजितं सुवीरम्
अस्माद् अश्वत्थात् पर्य् उद् भरामि ।
येन विश्वाः पृतनाः संजयान्य्
अथो द्युमत् समितिम् आ वदानि ॥
सर्वाष् टीकाः ...{Loading}...
०४ सबन्धुश् चासबन्धुश् च
विश्वास-प्रस्तुतिः ...{Loading}...
सबन्धुश् चासबन्धुश् च
यो न इन्द्राभिदासति ।
वृश्चामि तस्याहं मूलं
प्रजां चक्षुर् अथो बलम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सबन्धुश् चासबन्धुश् च
यो न इन्द्राभिदासति ।
वृश्चामि तस्याहं मूलं
प्रजां चक्षुर् अथो बलम् ॥