०६५

सर्वाष् टीकाः ...{Loading}...

०१ घृताहुता पृथिवी मा

विश्वास-प्रस्तुतिः ...{Loading}...

घृताहुता पृथिवी मा न एनो +++(Bhatt. ghṛtāhṛdā)+++
ऽस्मान् प्रजां वोचत किल्बिषाणि । +++(Bhatt. prajān)+++
अनातुराः सुमनसः सुवीरा
ज्योग् जीवन्तस् तव सख्ये स्याम ॥

०२ अन्तर् एमि यातुधानान्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तर् एमि यातुधानान्
अन्तर् एमि किमीदिनः ।
धियाम पित्र्या वयं
सरस्वत्या चरामसि ॥

०३ मा ते रिषम्

विश्वास-प्रस्तुतिः ...{Loading}...

मा ते रिषं खनिता
यस्मै च त्वा खनामसि ।
द्विपाच् चतुष्पाद् अस्माकं
मा रिषद् देव्य् ओषधे ॥

०४ अन्या वो अन्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

अन्या वो अन्याम् अवत्व्
अन्यान्यस्या उपावत ।
सध्रीचीः सव्रता भूत्वा
अस्यावत वीर्यम् ॥ +++(see Griffiths 2004, 59)+++