सर्वाष् टीकाः ...{Loading}...
०१ मुञ्चामि त्वा हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
मुञ्चामि त्वा हविषा जीवनाय कम्
अज्ञातयक्ष्माद् उत राजक्ष्मात् ।
ग्राह्या गृभीतो यद्य् एष एतत्
तत इन्द्राग्नी प्र मुमुक्तम् एनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मुञ्चामि त्वा हविषा जीवनाय कम्
अज्ञातयक्ष्माद् उत राजक्ष्मात् ।
ग्राह्या गृभीतो यद्य् एष एतत्
तत इन्द्राग्नी प्र मुमुक्तम् एनम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यदि क्षितायुर् यदि
विश्वास-प्रस्तुतिः ...{Loading}...
यदि क्षितायुर् यदि वा परेतो
यदि मृत्योर् अन्तिकं नीत एव ।
तम् आ हरामि निरृतेर् उपस्थाद्
अस्पार्षम् एनं शतशारदाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदि क्षितायुर् यदि वा परेतो
यदि मृत्योर् अन्तिकं नीत एव ।
तम् आ हरामि निरृतेर् उपस्थाद्
अस्पार्षम् एनं शतशारदाय ॥
सर्वाष् टीकाः ...{Loading}...
०३ सहस्राक्षेण शतवीर्येण शतायुषा
विश्वास-प्रस्तुतिः ...{Loading}...
सहस्राक्षेण शतवीर्येण
शतायुषा हविषाहार्षम् एनम् ।
इन्द्रो यथैनं जरसे नयात्य्
अति विश्वस्य दुरितस्य पारम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहस्राक्षेण शतवीर्येण
शतायुषा हविषाहार्षम् एनम् ।
इन्द्रो यथैनं जरसे नयात्य्
अति विश्वस्य दुरितस्य पारम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ शतं जीव शरदो
विश्वास-प्रस्तुतिः ...{Loading}...
शतं जीव शरदो वर्धमानः
शतं हेमन्ताञ् छतम् उ वसन्तान् । +++(Bhatt. hemantāṃ)+++
शतम् इन्द्राग्नी सविता बृहस्पतिः
शतायुषा हविषाहार्षम् एनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शतं जीव शरदो वर्धमानः
शतं हेमन्ताञ् छतम् उ वसन्तान् । +++(Bhatt. hemantāṃ)+++
शतम् इन्द्राग्नी सविता बृहस्पतिः
शतायुषा हविषाहार्षम् एनम् ॥