०६१

सर्वाष् टीकाः ...{Loading}...

०१ यस् त्वा मृत्युर्

विश्वास-प्रस्तुतिः ...{Loading}...

यस् त्वा मृत्युर् अभ्यधत्त
जायमानं सुपाशया ।
तं ते सत्यस्य हस्ताभ्याम्
उद् अमुञ्चद् बृहस्पतिः ॥

०२ अभि त्वा जरिमाहित

विश्वास-प्रस्तुतिः ...{Loading}...

अभि त्वा जरिमाहित
गाम् उक्षणाम् इव रज्ज्वा ।
व्य् अन्ये यन्तु मृत्यवो
यान् आहुर् इतराञ् छतम् ॥

०३ प्र विशतं प्राणापानाव्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र विशतं प्राणापानाव्
अनड्वाहाव् इव व्रजम् ।
शरीरम् अस्याङ्गानि
जरिम्णे नयतं युवम् ॥

०४ इहैव स्तं प्राणापानौ

विश्वास-प्रस्तुतिः ...{Loading}...

इहैव स्तं प्राणापानौ
मेमं हासिष्टं मृत्यवे ।
अयं जरिम्णः शेवधिर्
अरिष्ट इह वर्धताम् ॥

०५ जरसे त्वा परि

विश्वास-प्रस्तुतिः ...{Loading}...

जरसे त्वा परि दध्मो
जरसे नि धुयामसि ।
जरा त्वा भद्रया नेषत् ।
व्य् अन्ये यन्तु मृत्यवो
यान् आहुर् इतराञ् छतम् ॥