०५९

सर्वाष् टीकाः ...{Loading}...

०१ यस्माद् अङ्गात् संसुस्राव

विश्वास-प्रस्तुतिः ...{Loading}...

यस्माद् अङ्गात् संसुस्राव
यद् बभूव गलन्त्यशः ।
गावो वत्सम् इव जानानास्
तत् परैतु यथायथम् ॥

०२ नासृग् अस्ति पतङ्गस्य

विश्वास-प्रस्तुतिः ...{Loading}...

नासृग् अस्ति पतङ्गस्य
तर्दस्य मशकाद्याः ।
वेणोः पूतुद्रोर् नास्त्य् असृङ्
मास्य ग्लौर् मापचिद् भुवत् ॥

०३ अहं वेद यथासिथ

विश्वास-प्रस्तुतिः ...{Loading}...

अहं वेद यथासिथ
गुर्विका नाम वा असि ।
अमुं त्वं तम् इतो गच्छ
यम् अहं द्वेष्मि पूरुषम् ॥

०४ तस्यापि मध्य आ

विश्वास-प्रस्तुतिः ...{Loading}...

तस्यापि मध्य आ सीद
नीलग्रीवासु सीदता ।
वातस्यानु प्रवां
मशकस्यानु संविदम् ॥

०५ प्रेतो यन्त्व् अग्रुवो

विश्वास-प्रस्तुतिः ...{Loading}...

प्रेतो यन्त्व् अग्रुवो
निर् इतो यन्त्व् अग्रुवः ।
अधराचीम् इतः परः ॥

०६ प्राहं ग्लावम् अध्मासम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्राहं ग्लावम् अध्मासं
निर् अहं ग्लावम् अध्मासम् ।
अधराचीम् इतः परः ॥ +++(Bhatt. adharācīr)+++