०५८

सर्वाष् टीकाः ...{Loading}...

०१ विष्कन्धस्य काबवस्य कर्दमस्योलूक्याः

विश्वास-प्रस्तुतिः ...{Loading}...

विष्कन्धस्य काबवस्य
कर्दमस्योलूक्याः ।
अपस्थानस्य कृत्या यास्
तेषां त्वं खृगले जहि ॥

०२ प्र मृणीह्य् उपहत्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र मृणीह्य् उपहत्यां
कर्दमं नीलशाक्यम् ।
अधा सारम् इव दारुण
आयुष् कृणोम्य् अन्तरम् ॥

०३ विविद्धस्यावतृण्णस्य हृदस्य चाहृदस्य

विश्वास-प्रस्तुतिः ...{Loading}...

विविद्धस्यावतृण्णस्य
हृदस्य चाहृदस्य च ।
त्रिपर्णी विश्वभेषजी-
-इदं कृणोतु भेषजम् ॥

०४ काबवस्य विष्कन्धस्य अपस्थापनभेषजम्

विश्वास-प्रस्तुतिः ...{Loading}...

काबवस्य विष्कन्धस्य-
-अपस्थापनभेषजम् ।
इदं कृणोमि भेषजं
यथायम् अगदो ऽसति ॥