सर्वाष् टीकाः ...{Loading}...
०१ प्रेता जयता नर
विश्वास-प्रस्तुतिः ...{Loading}...
प्रेता जयता नर
उग्रा वः सन्तु बाहवः ।
इन्द्रो वः शर्म यच्छत्व्
अनाधृष्या यथासथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रेता जयता नर
उग्रा वः सन्तु बाहवः ।
इन्द्रो वः शर्म यच्छत्व्
अनाधृष्या यथासथ ॥
सर्वाष् टीकाः ...{Loading}...
०२ उद् धर्षन्तां मघवन्न्
विश्वास-प्रस्तुतिः ...{Loading}...
उद् धर्षन्तां मघवन्न् आयुधान्य्
उत् सत्वनां मामकानां मनांसि ।
उद् धर्षन्तां वाजिनां वाजिनान्य्
उद् वीराणां जयताम् एतु घोषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् धर्षन्तां मघवन्न् आयुधान्य्
उत् सत्वनां मामकानां मनांसि ।
उद् धर्षन्तां वाजिनां वाजिनान्य्
उद् वीराणां जयताम् एतु घोषः ॥
सर्वाष् टीकाः ...{Loading}...
०३ पृथग् घोषा उलुलयः
विश्वास-प्रस्तुतिः ...{Loading}...
पृथग् घोषा उलुलयः
केतुमन्त उद् ईरताम् ।
देवा इन्द्रज्येष्ठा
मरुतो यन्तु सेनया ॥
मूलम् ...{Loading}...
मूलम् (GR)
पृथग् घोषा उलुलयः
केतुमन्त उद् ईरताम् ।
देवा इन्द्रज्येष्ठा
मरुतो यन्तु सेनया ॥
सर्वाष् टीकाः ...{Loading}...
०४ अवसृष्टा परा पत
विश्वास-प्रस्तुतिः ...{Loading}...
अवसृष्टा परा पत
शरव्ये ब्रह्मसंशिते ।
जयामित्रान् प्र पद्यस्व
मामीषां कं चनोच् छिषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अवसृष्टा परा पत
शरव्ये ब्रह्मसंशिते ।
जयामित्रान् प्र पद्यस्व
मामीषां कं चनोच् छिषः ॥