०५५

सर्वाष् टीकाः ...{Loading}...

०१ इदम् आञ्जनम् आनजे

विश्वास-प्रस्तुतिः ...{Loading}...

इदम् आञ्जनम् आनजे
शैलूनम् आकनिक्रदम् ।
अभि मा चक्रन्द भग
ऋषभो वाशिताम् इव ॥ (Bhatt. vāsitām)

०२ अश्वः कनिक्रदद् यथा

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वः कनिक्रदद् यथा
प्रत्यङ् मा भग आगमत् ।
तम् अहं प्रेण्या अधि
पुत्रम् इवोपस्थ आधिषि ॥

०३ अक्ष्यौ मे मधुसङ्काशे

विश्वास-प्रस्तुतिः ...{Loading}...

अक्ष्यौ मे मधुसंकाशे
जिह्वा मे मधुवादिनी ।
नसोर् अधि प्रमन्दनं
दत्सु मे सारघं मधु ॥

०४ मधुमन् मम नीसनम्

विश्वास-प्रस्तुतिः ...{Loading}...

मधुमन् मम नीसनं
जघनं मधुमन् मम ।
माम् इत् किल त्वं वावनः
शाखां मधुमतीम् इव ॥